मूलम्
परीक्षकमतिस्त्वेषा यादृगद्योपलभ्यते।शास्त्रमेतत्त्थैवादेः कालादिति न निश्चयः॥
मूलम्
सर्वे भावाः प्रतिकलं परिणामिन इत्यपि।श्रूयते दृश्यते चापि प्रबन्धे तु विशेषतः॥
मूलम्
कर्तै व हि स्वकं ग्रन्थं आवपत्युद्वपत्यपि।बहोः कालात्प्रवक्तृणां संप्रदाये तु किंपुनः॥
मूलम्
प्रवक्तारस्तत्रतत्र जैमिन्यादिपदैरपि।प्रकाशयन्ति तत्रत्याभिप्रायानिति यु़ज्यते॥
मूलम्
तथाच सर्वैराचार्यैः सम्प्रदायप्रवर्तने।परिष्कृतिप्रभेदेन व्यवहारो विकल्पताम्॥
मूलम्
स्मृतिसूत्रप्रवाहोऽयमनादिरिति वर्णितम्।कालेकाले संभेवतां प्रायस्संकोचविस्तरौ॥
मूलम्
कर्मकाण्डः देवकाण्डः ब्रह्मकाण्ड इति त्रयम्।कृतं जैमिनिनैवेति चोल्लिखन्ति परे बुधाः॥
मूलम्
प्रसिद्धिराद्ययोरस्ति तृतीयस्य पुनर्यथा।नैष्कर्म्यसिद्धौ नवतितमश्लोकस्थभारती॥
टीका
नैष्कर्म्य.[90 श्लो]
मूलम्
जैमिनिस्सामागाचार्यस्सामवेदप्रवर्तकः।यासशिष्य इति स्पष्टं श्रूयते भारतादिषु॥
मूलम्
कर्मकाण्डे सामवेदविचारः प्रायशास्ततः।छान्दोग्योपनिषत्सामशाखीयेति च विश्रुता॥
मूलम्
प्रायस्तदीयवाक्यानि सूत्राणां विषया इति।सूत्रभाष्यसमध्येतृविदुषामतिरोहितम्॥
मूलम्
जौमिनीयं ब्रह्मसूत्रमावोपोद्वापतः पुनः।पर्यष्कार्षीद्यव्यास इति संदर्भेणोहितं क्षमम्॥
मूलम्
अनेकेषां मतं ब्रह्मसूत्रेषूदाहृतं ततः।ब्रह्मसूत्राण्यप्यनेकान्यासन्निति च कल्प्यते॥
मूलम्
एवं प्रकल्पने प्रायः भाति सर्वं सुसंगतम्।किंकिं नसंभाव्यतेऽत्र संसारेऽनादिवाहिनि॥