823 ब्रह्मसूत्रम्

मूलम्

तत्र शारीरकं शास्त्रं बादरायणनिर्मितम्।स बादरायणो व्यास इत्याहुर्बहवो बुधाः॥

मूलम्

श्रीमद्रामानुजाचार्यः बादरायणनिस्वनम्।भाष्ये स्वे सूत्रकृत्त्वेन व्यासत्वेनाप्यभाषतः॥

मूलम्

तथा श्रीयामुनाचार्यस्सिद्धित्रयनिबन्धने।उपक्रमे प्राह सूत्रं बादरायणनिर्मितम्॥

मूलम्

श्रीशाङ्करे भास्करेऽपि चान्त्यसूत्रावतारणे।सूत्रकर्तेति विस्पष्टो भगवान् बादरायणः।

टीका

ब्र. सू.[4-4-22]

मूलम्

स्मरन्ति चेत्यादिसूत्रे व्यासादाय इतीरणात्।कृष्णद्वैपायनो नासाविति भङ्ग्याऽत्र सूच्यते॥

टीका

ब्र. सू.[2-3-46]

मूलम्

स्मृतेश्चेत्यादिसूत्रेशु गीतावचनलेखनात्।ब्रह्मसूत्रपदैश्चेति गीतायामपि दर्शनात्॥

टीका

ब्र. सू.[1-3-22]

मूलम्

परस्परगृहीतिस्तु विरोधायेति दृष्टितः।ब्रह्मसूत्रपदं वेदमोळिवाक्यपरं कृतम्॥

टीका

भ. गी. शं.[13-4]

मूलम्

इत्युल्लिखन्ति कतिचित् न तत्तु विदुषां मतम्।कृष्णद्वैपायनस्सूत्रकर्ता भारतकृच्च सः॥

मूलम्

द्वीपे बादरिकामिश्रे बादरायणमच्युतम्।पराशरात्सत्यवती लेभे पुत्रं परंतपम्॥

मूलम्

तस्यैव सूत्रकर्तृत्वं पूर्णप्रज्ञैरुदाहृतात्।स्कान्दवाक्यादपि स्पष्टं निर्मयन्ति यथा पुनः॥

टीका

ब्र. सू.[1-1-1]

मूलम्

अवतीर्णो महायोगी सत्यवत्यां पराशरात्।उत्सन्नान् भगवान् वेदान् उज्जहार हरिस्स्वयम्य़य़

मूलम्

चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः।शतधा चैकधा चैव तथैवच सहस्रधा॥

मूलम्

कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये।चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा॥

मूलम्

श्रुतप्रकाशिकातत्त्वटीकयोरप्युदाहृतम्।वचस्त्विदं तथा वाचस्पतिवाक्यं निशम्यताम्॥

मूलम्

ब्रह्मसूत्रकृते वेदव्यासायापरवेधसे।ज्ञानशक्त्यवताराय नमो भगवते हरेः॥

टीका

भामत्यारम्भे.[ ]

मूलम्

इत्यन्यत्र प्रपञ्चोऽथ गीताकर्ताऽप्यसौ मतः।यतो भारतकर्ता सः,यद्गीतासूत्रयोर्मिथः॥

मूलम्

ग्रहणं ब्रह्मसूत्रेति स्मृतेश्चेत्यतिशाङ्कितम्।तत्रेदमवधातव्यं निर्णीतं तत्त्वटीकया॥

टीका

त. टी.[ ]

मूलम्

ब्रह्मसूत्रपदैश्चेति भाविदृग्भगवद्वचः।सूत्रपश्चाद्भावि वा स्यात् न्यबध्नाद्भारते स्वयम्॥

मूलम्

सूत्रस्य विषयत्वेन वाक्यरूपा कृतिः पुनः।प्राक्तनी भाविनी वाऽत्रचोदाह्रियत इत्यतः॥

मूलम्

न परस्परसंबाधः न प्रसिद्धार्थनिह्नवः।अथवाऽनादिसिद्धत्वात् स्मृतिसूत्रप्रवाहयोः॥

मूलम्

परस्परगृहीतिस्तु न विरोधाय कल्पते।प्रवाहानादिवादोऽयं यं शास्त्रशरणा विदुः॥