मूलम्
एवमेतच्छास्त्रतत्त्वं संग्राहादिह सूचितम्।तच्छास्त्रमनुरुद्ध्याव कर्मब्रह्मात्मनोरपि॥
मूलम्
शास्त्रयोगसंधिरुदितसंसांकर्षे चात्र मन्यमे।प्रातिपाद्यमिदं तत्र पूर्वाचार्यनिरूपितम्॥
मूलम्
सुवरूपमादो तद्भेदस्तदुपासनपूर्वकम्।फलं च देवताकाण्डे देवतानां कथ्यते॥
मूलम्
ततश्च संहितं शास्त्रमेतद्विंशतिलक्षणम्।इति वृत्तिकृतां वाक्यमेतत्तात्पर्यगर्भितम्॥
टीका
श्रीभाष्यारम्भे.[ ]
मूलम्
एतेन कर्ममीमांसासिद्धान्ते जडविश्रुतः।विर्दैववादो निस्समविद्दैववादोऽप्यपाकृतः॥
मूलम्
तं च संकर्षणकाण्डं तु काशकृत्स्नविनिर्मितम्।प्राहुः केचिद्बुधास्त्वन्ये विदुः जैमिनिनिर्मितम्॥
टीका
अधिकरण.[15 श्लो]
मूलम्
समाख्ययोल्लिखत्यन्त्ये संकर्षणविनिर्मितम्।सर्वथा पाञ्चरात्रस्य सिद्धान्तमनुवर्तते ॥
मूलम्
स्पन्दप्रदीपिका नाम भट्टोत्पलविनिर्मिता।तत्र चोदाहृतं ग्रन्थजातमेतन्निशम्यताम्॥
मूलम्
पाञ्चरात्रश्रुतिः पाञ्चरात्रोपनिषदोऽपिच।संकर्षणस्य सूत्राणीत्यादिकं विविधं तु तत्॥
मूलम्
तत्सूत्रस्थं वाक्यमेकमिदं तावदुदाहृतम्।येनेदं दृश्यते विस्वं द्रष्टा सर्वस्य यस्सदा॥
मूलम्
दृश्यश्चराचरत्वे यः स विस्णुरिति गीयते।एतेन विष्णुपारम्यसिद्धान्तोऽयमिति स्थितम्॥
मूलम्
तस्सूत्रमनुसृत्यैव काशकृत्स्नेन वाऽथवा ।कृतं जैमीनिना सूत्रं देवताकाण्ड इष्यते॥
मूलम्
पूर्णप्रज्ञैरनुव्याख्याप्रबन्धे देवताकाण्डगः।द्वितीयलक्षणश्शेषप्रणीत इति भाषितम्॥
मूलम्
स एव संकर्षकाण्डऋ मीमांसाभाष्यकर्तृभिः।आचार्यशबरैः पूर्वाचार्यैश्च समुदाहृतः॥
मूलम्
अन्ते हरौ स विष्णुश्च तं ब्रह्मेति च सूत्रणात्।अथातो ब्रह्मजिज्ञासा चेति शास्त्रं सुसङ्गतम्॥