मूलम्
एवमेकं सांख्ययोगं वेदारण्यकमेवच।परस्पराङ्गान्येतानि पञ्चरात्रं तु कथ्यते॥
मूलम्
इत्यादीनि प्रमाणानि प्रसिद्धानि विपश्चिताम्।तत्र चान्तिमपद्येन शास्त्रसारार्थ उद्धृतः॥
मूलम्
तस्यायामर्थश्श्रीभाष्ये तर्कपादे निरूपितः।पञ्चविंशतितत्त्वानि सांख्योक्तानीति विश्रुतम्॥
टीका
श्रीभा.[2-2-42]
मूलम्
योगोक्तश्चापि साष्टाङ्गयोगस्संयमलक्षणः।वेदोदितं च कर्मापि यागहोमादिलक्षणम्॥
मूलम्
आरण्यकं परं ब्रह्म प्रतिपादयति स्फुटम्।परस्पराङ्गता तावत् तत्त्वं ब्रह्मात्मकं स्वतः॥
मूलम्
ब्रह्मोपासनरूपश्च योगः कर्मापि कृत्स्नशः।तदाराधनरूपं चेत्येतदत्राभिधीयते॥
मूलम्
तत्पञ्चरात्रे प्रख्याते शास्त्रेऽस्मिन्विशदीकृतम्।इति नारायणेनैव स्वयं हि कथितं त्विति॥