मूलम्
एवं शास्त्रं संप्रदायं कर्तारं विषयं तथा।आचष्ट भगवान् व्यासः भारते शान्तिर्पर्वणि॥
मूलम्
सांख्यस्य वक्ता कपिल इत्यारभ्य हि पठ्यते।पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम्॥
मूलम्
वेदान्तेषु यथा सारं संगृह्य भगवान् हरिः।भक्तानुकम्पया विद्वान् संचिक्षेप यथासुखम्॥
मूलम्
ब्रह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः।अर्चनीयश्च सेव्यश्च पूजनीयश्च माधवः॥
मूलम्
सात्त्वतं विधिमास्थाय गीतस्संकर्षणेन यः।द्वापरस्य युगास्याऽन्ते ह्यादौ कलियुगस्य च ॥
मूलम्
नारदेन तु संप्राप्तस्सरहस्यः ससंग्रहः।एष धर्मो जगन्नाथात् साक्षान्नारायणान्नृप॥
मूलम्
एवमेव महान् धर्मः स ते पूर्वं नृपोत्तम।कथितो हरिगीतासु समासविधिकल्पितः॥
मूलम्
नूनमेकान्तिधर्मोऽयं श्रेष्ठो नारायणप्रियः।सहोपनिषदान् वेदान् ये विप्रास्सम्यगास्थिताः॥
मूलम्
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः।तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्॥
मूलम्
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृथे।अर्जुने विमनस्के च गीता भगवता स्वयम्॥
मूलम्
आगतिश्च गतिश्चैव पूर्वं ते कथितं मया।गाहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥