819 सात्त्वतविचारः

मूलम्

सत्त्वच्छब्दो हि भगवच्छब्दवाद्विष्णुतत्परः।अण्प्रत्ययश्च भक्तार्थः ते भागावतसात्त्वताः॥

मूलम्

एवंहि श्रीयामुनेयागामप्रामाण्यनिर्णयः।वैश्यात्तु जायते व्रात्यात् मैत्रस्सात्त्वत एवच॥

टीका

आगमप्रामाण्यम्.[ ]

मूलम्

पञ्चमस्सात्त्वतो नाम विष्णोरायतनानि सः।पूजयेदाज्ञया राज्ञां स तु भागवतः स्मृतः॥

मूलम्

इत्यादिवचनैर्हीनजातिशङ्का न युच्यते।मा भूदाचार्यशब्दत्वाद्ब्रह्मणस्य निकृष्टता॥

मूलम्

विष्णुपूजादिसंबन्धाज्जात्यन्तरभवा अपि।प्रसिद्धास्सात्त्वताश्चेति तथा भागवता इति॥