मूलम्
अथ वृत्तिकृतां मार्गं पाञ्चरात्रमतानुगम्।समाश्रयन् बुधा एते तत्तत्त्वमवधार्यताम्॥
मूलम्
द्वापरान्ते वासुदेवः भगवान् स हरिस्स्वयम्।अवातारदिति प्रायः सर्वैरभ्युपगम्यते॥
मूलम्
तस्य संकर्षणो नाम भ्राताऽऽसीदिति च श्रुतम्।प्रद्युम्नस्तनयः पौत्रोऽनिरुद्ध इति च श्रुतः॥
मूलम्
सैषा परंपरा पाञ्चरात्रशास्त्रप्रवर्तिका।एते हि सात्त्वताः प्रोक्ता शास्त्रं चापिहि सात्त्वतम्॥