मूलम्
मोक्षप्रभेदं कैवल्यं केचिदिच्छन्ति सूरयः।तत्र स्वात्मानन्दलाभः पुनरावृत्तिवर्जितः॥
मूलम्
कैश्चित्तु कैवल्यभोग्यः स्वात्मा ब्रह्मापृथक्स्थितः।विशेषणतया भानमात्रं ब्रह्मण इष्यते॥
मूलम्
केषांचित्स्वात्मसंतोयषः कैवल्यमिति निर्णयः।पुनरावृत्तिरस्यास्ति स्थितिः प्रकृतिमण्डले॥
मूलम्
परिपूर्णपरब्रह्मानुभवे मोक्षलक्षणे।प्रभेदं केचिदिच्छन्ति तत्तत्त्वमवधार्यताम्॥
मूलम्
परब्रह्मोपासनया ये मुक्तास्ते तु केवलम्।परिपूर्णपरब्रह्मानुभवैकपरायणाः॥
मूलम्
कैङ्कर्यलिप्यसया ये तु मुक्तास्ते किङ्कराः पुनः।परार्थस्वार्थभेदेन द्विविधाः परिनिष्ठिताः॥
मूलम्
एवं मोक्षे विधाभेदं केचिन्नेच्छन्ति सूरयः।कैवल्यनिष्ठया मुक्ताः न मुक्ता इति तैर्मताः॥
मूलम्
स्वरूपतो मुक्तभेदं द्वैतसिद्धान्तिनो विदुः।आनन्दतारतम्येन मुक्तिभेदो व्यवस्थितः॥
मूलम्
नित्यमुक्तो नित्यबद्धः आर्हतैर्नोपगम्यते।आद्यो विशिष्टाद्वैतेष्टः द्वितीयो द्वैतसम्मतः॥