मूलम्
सा स्मर्यमाणस्यात्यर्थप्रियत्वेन स्वयं तथा।अत्यर्थप्रीतिरूपत्वमापन्ना भक्तिरुच्यते॥
मूलम्
भज इत्येष धातुर्वै सेवतायां परिकीर्तितः।तस्मात्सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसा॥
मूलम्
इति वोधायनवचः प्रस्पष्टं समुदाहृतम्।प्रकाशिकादीपिकयोः श्रीसुदर्शनसूरिभिः॥
मूलम्
प्रीतिरूपमनुध्यानं भक्तिरित्यभिधीयते।भक्तिस्सेवोपास्तिरिति यास्कोऽपि निरघण्टयत्॥
मूलम्
परभक्तिः परं ज्ञानं परमा भक्तिरित्यपि।पूर्वक्रमेणोपचितं विज्ञानं मुक्तिसाधनम्॥
मूलम्
साक्षात्कृतस्यानुभवाभिनिवेशस्तु सा परा।या फलस्याव्यवहितपूर्वावस्थेति कीर्त्यते॥
मूलम्
तत्संबन्धाद्भक्तिशब्दः स्युत्यादावुपचारतः।साऽनेतधा सद्दहरभूमविद्यादिभेदतः॥
मूलम्
अविशिष्टफलत्वेन विकल्पश्च व्यवस्थितः।प्रपत्तिरपि च ब्रह्मविद्यैवेदि पुरः स्थितम्॥
मूलम्
यैवैषा परभक्तिस्स्यात्तदेव परमं सुखम्।उपायश्च स एवायमीशनिग्रहशान्तये॥
मूलम्
ज्ञानस्यैव विकारोऽयमिच्छाद्वेषसुखादिकः।अनुकूलतया वेद्यं सर्वं सुखमितीष्यते॥
टीका
वे.सं.[248]
मूलम्
कार्यं नियोगश्चापूर्वं धर्मो वेदार्थ इत्यपि।यद्वचः सकलं प्राह कृष्णं धर्मं सनातनम्॥
मूलम्
देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसंपदा।इति वामनकाव्यालंकारसूत्रेऽप्यनूदितम्॥
टीका
काव्यालङ्का.[2-2-24]
मूलम्
ज्ञानमार्गे भक्तिमार्गे विभिन्नः मोक्षसाधनम्।इति सिद्धान्तयोरैक्यं विशिष्टाद्वैतसम्मतम्॥