मूलम्
विशिष्टाद्वैतसिद्धान्ते नारायणकटाक्षतः।विनश्यत्यखिलं कर्माविद्यानिग्रहलक्षणम्॥
मूलम्
वेदनं ध्यानविश्रान्तं ध्यानं श्रान्तं ध्रुवास्मृतौ।सा च दृष्टित्वमभ्येति दृष्टिः भक्तित्वमृच्छति॥
टीका
शतदू.[7 भ.]
मूलम्
स्मृतिसन्ततिधारेयं ध्यानमित्यभिधीयते।विजातीयप्रत्ययाव्यवहीता सा ध्रुवा स्मृतिः॥
मूलम्
तैलादिधारावदविच्छिन्ना सन्ततिरेव सा।सा दर्शनसमाकारा दृष्टिरित्यभिधीयते॥
मूलम्
वैशद्यातिशयश्चैषः भवेदाकारशब्दितः।एवंरीत्युपचारस्य निदानं स्यादिदं यथा॥
मूलम्
शास्त्रैकसमधागम्यं ब्रह्मौपनिषदं मतम्।अतश्च शास्त्रयोनीति संरम्भेण निरूपितम्॥
मूलम्
तदन्तःकरणाध्यक्षवेद्यत्वे हि विरुध्यते।भावनाबलजाध्यक्षवेद्यत्वेऽपि तथैव हि॥
मूलम्
अतः प्रत्यक्षशब्दस्स्यात्समानाकारगोचरः।वृक्षेवक्षे च पश्यामीत्यादिभूरिप्रयोगतः॥