मूलम्
जीवैक्यपक्षे मुक्तिस्तु शुद्धब्रह्मैकरूपता।अनेकजीववादेऽपि प्रतिबिम्बो यदीश्वरः॥
मूलम्
मुक्तस्य शुद्धचैतन्यरूपैवावस्थितिर्मता।ईश्वरो यदि बिम्बात्मा प्रतिबिम्बः पुमान्यदि॥
मूलम्
उभयामुगतं शुद्धचैतन्यमिति सिद्ध्यति।तदा यावत्सर्वामुक्ति चितिमात्राविरोधि यत्॥
मूलम्
बद्धान्तराज्ञानकृतमैश्वर्यं निरवग्रहम्।गुणाष्टकं च निरतिशयानन्दप्रकाशनम्॥
मूलम्
तैर्युक्ता निस्सन्धिबन्धेश्वरतापत्तिलक्षणा।मुक्तिस्संपद्यत इति सूत्रभाष्यादिसम्मता॥
मूलम्
सैषा विशुद्धचिन्मात्रभावेऽन्ते पर्यवस्यति। इत्यद्वैतमते सूक्ष्मविचारोऽन्यत्र विस्तृतः॥