813 अविद्यानिवृत्तिः

मूलम्

अविद्याया निवृत्तिस्तु ब्रह्मेति ब्रह्मसिद्धिकृत्।आनन्दबोधाचार्यास्तु ब्रह्मान्येति प्रचक्षते॥

मूलम्

न सन्नासन्न सदसन्नानिर्वाच्यश्च तत्क्षयः।यक्षानुरूपो बलिरित्याचार्याः प्रत्यपीपदन्॥

मूलम्

न सती साऽद्वैतहानेः नासती ख्यातिसंभवात्।विरोधान्नोभयात्मेयं नानिर्वाच्याऽनवस्थितेः॥

मूलम्

उक्तप्रकारोक्तीर्णेयं अवस्था पञ्चमी मता।चतुष्कोटिविनिर्मुक्तशून्यतत्त्वविलक्षणा॥

मूलम्

अविद्यां विश्वजननीमर्धपञ्चमरूपिणीम्।निवृत्तिपञ्चमाकारां कल्पयन्ति विपश्चितः॥

टीका

स. सि.[4-18]

मूलम्

अद्वैतविद्याचार्यास्तु साऽनिर्वाच्येति मन्यते।सच भावविकारोऽन्यः क्षणिकः नानुवर्तते॥

मूलम्

प्रथमभणसंबन्धो यथोत्पत्तिः तथैव सा।चरमक्षणसंबन्धः क्षणिकः नानुवर्तते॥