मूलम्
जातेऽपि ब्रह्मविज्ञाने प्रतिभासोऽनुवर्तते।अविद्योपादानलेशात् जीवन्मुक्तिस्ततः स्मृता॥
मूलम्
तत्र लेशपदार्थस्तु बुधैरेव विकल्प्यते।विक्षेपशक्तेरंशोऽयमिति केचित्प्रचक्षते॥
मूलम्
अविद्यासंस्कार इति परे लशुनगन्धवत्।दग्धवस्त्रनयान्मूलालिधैवेत्यपरे विदुः॥
मूलम्
सर्वज्ञात्ममुनिर्जीवन्मुक्तिपक्षं निषेधाति।स्याच्चेज्जीवन्मुक्तिशास्त्रं अर्थवादो भवेदपि॥
मूलम्
श्रवणादिविधेरेवेत्याशयं वर्णयत्यसौ।अथाविद्यानिवृत्त्यंशे विकल्पोऽप्यवधार्यताम्॥