मूलम्
मोक्षस्य साधनं स्रवसम्मतं तत्त्वदर्शनम्।तत्तत्वदर्शनं यावदात्मभावीति ये विदुः॥
मूलम्
ते सन्तु ये तु तस्यापि ज्ञानस्योपशमं विदुः।तेषां मतविकल्पोऽयं संक्षेपाजवधार्यताम्॥
टीका
सिद्धान्तलेशः.[ ]
मूलम्
यथाच कातको रेणुः यथा दग्धायसोदकम्।यथावा दग्धदहनः त्रिवृत्पानं यथाऽपिवा॥
मूलम्
यथाच कनकारूढं रजतं कल्पषापहम्।स्वयं विवर्तेते तद्वत् ज्ञानशान्तिं विदुर्बुधाः॥
मूलम्
अन्ये तु ब्रह्मविज्ञानमज्ञानस्य निवर्तकम्।उपादानविनाशेन प्रपञ्चोऽपि विनश्यति॥
मूलम्
ब्रह्मज्ञानं तदन्तःस्थं तत एव विनश्यति।साक्षात्पारंपर्यतो वा मिथ्यात्वं ज्ञानबाध्यता॥
मूलम्
वेदान्तवाक्यजनितं नियमादृष्टसंयुतम्।ब्रह्मज्ञानं तदज्ञाननिवर्तकमितीतरे॥
मूलम्
अन्यैस्तु तत्त्वमस्यादिवाक्यजात्मैक्यशेमुषी।बाधते भेदविषयं मूलाज्ञामितीर्यते॥
मूलम्
प्रकाशनाश्यं ह्यज्ञानं जडरूपान्न नश्यति।इतीतरे तदारूढचैतन्यान्नाशमभ्युधुः॥
मूलम्
तृणादेर्भासिकाऽप्येषा सूर्यदीप्तिः तृणं दहेत्।सूर्यकान्तमुपारुह्य तन्न्यायं योजयन्त्यपि॥