मूलम्
सामान्यतस्तत्करणविकल्पोऽत्र विविच्यते।प्रसंख्यानं विदुः केचित्प्रत्ययाभ्यासलक्षणम्॥
मूलम्
तच्च ध्यानं भावना सा सैवोपास्तिः ध्रुवा स्मृतिः । प्रसंख्यानेन सहितं मन एवेति के चन ॥
मूलम्
वाक्यमेवापरोक्षस्य करणं केचिदब्रवन् । तत्र ध्यानापूर्वयुक्तं वाक्यं केचन मन्वते ॥
मूलम्
ध्यानयुक्तं वाक्यमेव नापूर्वमिति केचन।विषयस्यापरोक्षत्वात्तादृग्वाद इतीतरे॥
मूलम्
भावनायाः प्रकर्षेण परे ध्यानं तु तादृशम्।वैशद्यातिशयात्साक्षात्कारवाग्गोचरं विदुः॥
मूलम्
अन्ये तु तद्दिव्यदृष्टिलाभात्साक्षात्कृतिं विदुः।श्रवणं मननं ध्यानमथ दर्शनमेववा॥
मूलम्
अधिकारानुरोधेन विकल्प इति यादवाः।अतश्श्रुतिमयी चिन्तमयी वा भावनामयी॥
मूलम्
साक्षात्कारवती चेति प्रतिपत्तिर्विकल्पिता।कथेयं महती सर्वशास्त्रेष्वस्यास्ति विस्तरः॥