मूलम्
अथ सौगतसिद्धान्ते मोक्षसाधनमुच्यते।आत्मनो नित्यतायां तु नैवास्थायाः परिक्षयः॥
मूलम्
दुःखं स्वलक्षणं शून्यं सकलं क्षणिकं जगत्।एवं भावयतः तत्त्वसाक्षात्कारोदयः स्वयम्॥
मूलम्
अमुकूलं चानुगतं सत्यं स्थिरमिति भ्रमाः।निरुक्तभावनानाश्याः भवहन्धस्य हेतवः॥
मूलम्
सोऽयं विमसविज्ञानमहोदय इतीर्यते।रागादिज्ञानसंतानवासनोच्छेदसंभवा॥
मूलम्
तदवान्तराभेदाश्च मोक्षतत्त्वे निरुपिताः।मोक्षभेदानुगुण्येन तत्साधनविकल्ना॥
मूलम्
कृत्तिः कमण्डलुः मौण्ड्यं चीरं पूर्वाह्णभोजनम् । सङ्घो रक्ताम्बरत्वं च शिश्रिये बोद्धभिक्षुभिः ॥
मूलम्
अज्ञानादिह संसारः ज्ञानादेव परिक्षयः।प्रधानसाधनं मोक्षे ज्ञानमेते प्रचक्षते॥
मूलम्
तत्तु साक्षात्काररूपमित्यत्र न विकल्पना।बन्धस्य कारणं यस्मात्साक्षात्कारात्मको भ्रमः॥