806 गान्धर्वम्

मूलम्

गीताशास्त्रं मोक्षहेतुरित्यप्याहुर्मुनीश्वराः।याज्ञवल्क्यादयस्तत्र वचनं त्ववधार्यताम्॥

मूलम्

अनन्ययविषयं कृत्वा मनोबुद्धिस्मृतीन्द्रीयम्।ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः॥

टीका

याज्ञ.[3-113]

मूलम्

यथाविधानेन पठन् सामगानमविच्युतम्।सावधानस्तदभ्यासात्परं ब्रह्माधिगच्छति॥

मूलम्

अपरान्तकमु्ल्लोप्यं मद्रकं प्रकरीं तथा।औवेणुकं सरोबिन्दुमुत्तरं गीतकानि च॥

मूलम्

ऋग्गथा पाणिका दक्षविहिता ब्रह्मगीतिका।गेयमेतत्तदभ्य़ासाकरणान्मोक्षसंज्ञितम्॥

मूलम्

वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः।कालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति॥

मूलम्

गीतज्ञो यदि योगेन नाप्नोति परमं पदम्।रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते॥

मूलम्

इमं सिद्धान्तमालम्ब्य नृत्तगीतैरलंकृतम्।इति पराशरं वाक्यं व्याख्यातं माधवैर्यथा॥

मूलम्

मुमुक्षवो हि यक्षाद्याः नृत्तगीतादिभिः पुनः।ईश्वरं भजमानाश्च यत्र तिष्ठन्ति चाश्रमे॥

मूलम्

इत्यतो गीताशास्त्रं हि चित्तैकाग्र्यं च साधयत्।अनासायेन मोक्षस्य मार्ग इत्यृषयो विदुः॥