मूलम्
तथा माहेश्वरे तन्त्रे मोक्षमार्गो निरूपितः।चतुर्विधा हि ते सिद्धचर्यामार्गानुसारिणिः॥
मूलम्
यथा कापालिकाः कालामुखाः पाशुपतास्तथा।शैवास्तत्रच कापालं मतमेवं प्रचक्षते॥
मूलम्
मुद्रिकाषट्कविज्ञानात् पुनस्तस्यैव धारणात्।अपवर्गफलपपप्राप्तिर्न ब्रह्मावगमादिति॥
मूलम्
मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः। भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति॥
मूलम्
कर्णिकां रुचकं चैव कुण्डलं च शिखामणिम्। भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते॥
मूलम्
कपालमथ खट्वाङ्गमुपमुद्रे प्रकीर्तीते।आभिर्मुद्रितदेहस्तु न भूय इह जायते॥