मूलम्
सम्यग्दर्शनचारित्रश्रद्धानं मोक्षसाधनम्।इत्यर्हदुक्तिसंक्षेपपरमागमसंग्रहः॥
टीका
स. सं.[3 द.]
मूलम्
यथाऽवस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा।योऽवबोधस्तमत्राहुः सम्यज्ज्ञानं मनीषिणः॥
मूलम्
सर्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते।कीर्तीतं तदहिंसादिव्रतभेदेन पञ्चधा॥
मूलम्
रुचिर्जिनोक्ततत्वेषु सम्यक्श्रद्धानमुच्यते।जीवात्मनस्तु सहजचिद्रूपपरिणामिनः॥
मूलम्
स्वरूपस्फुरणं सर्वेऽप्यजाड्यं प्रायशो विदुः।परिणामि भवेत् ज्योतिः पौरुषं विषयांस्पृशत्॥
मूलम्
रूपादिज्ञानरूपेण स चास्त्रव इतीर्यते।आस्त्रवस्य निरोधो यः संवरो गुप्तिलक्षणः॥
मूलम्
आस्त्रवस्त्रोतसो द्वारं संवृणोतीति संवरः।आस्त्रवो भवहेतुस्स्यात् संवरो मोक्षकारणम्॥
मूलम्
लुञ्छिताः पिञ्छिकाहस्ताः पाणिपात्रा दिगम्बरा।श्वेताम्बराः क्षमाशीलाः निस्सङ्गाः मोक्षभोजिनः॥
मूलम्
एवंरूपाः कायशोषनिरता जैनसाधवः।अद्यापि न निवर्तन्ते त्वलोकाकाशमागताः॥
मूलम्
ज्ञानं तपःप्रधानं स्यादेतेषां मोक्षसाधनम्।प्रायेण भौतिको बन्धः तपसैव हि शुद्ध्यति॥