मूलम्
लोकायतमते देहविच्छेदे मोक्षलक्षणे।स्वभावस्साधनं यस्मात्ते ह्याकस्मिकताविदः॥
मूलम्
आत्मानं पूजयेन्नित्यं भूषणाच्छादनादिभिः।स्वदेह एव दैवं स्यादन्यद्दैवं न विद्यते॥
मूलम्
देवादिपदवाच्यास्स्युः प्रतिमा मृच्छिलामयाः।अतएवहि देवास्स्युरमरा निर्जरा अपि॥
मूलम्
अस्वप्ना नित्यतृप्ताश्च नाश्नन्ति न पिबन्त्यपि।अप्रत्राश्चाप्यनिमिषाः त्रिदशा अपि विश्रुताः॥
मूलम्
देवालयः स्थानमपि सदा सुमनसश्च ते।महान् चतुर्भुजादिस्स्याद्विग्रहः परमेश्वरः॥
टीका
न्या. कु.[1 स्त.]
मूलम्
तथैव लौकिको राजा परमेश्वर उच्यते।तस्यानुवर्तनं कार्यं उत्तमां भूतिमिच्छता॥
मूलम्
अरोगदृढगात्रत्वं सुखस्योत्तमकारणम्।एति जीवन्तमानन्दो नरं वर्षशतादपि॥
मूलम्
इति चार्वाकसिद्धान्तः प्रत्यक्षस्सार्वलौकिकः।अथार्हतानां सिद्धान्ते मोक्षसाधनसंग्रहः॥