मूलम्
द्रष्टव्योऽस्य न्यायरत्नमालायां विस्तरः कृतः।निमित्तवादिनः सर्वं कर्म नैमित्तिकं विदुः॥
टीका
न्या. मा.[193]
मूलम्
केचित्तु सकलं कर्म विदुः काम्यमितीरितम्।नित्यमेवेत्याहुरेके निषिद्धमपरे विदुः॥
मूलम्
नित्यं नैमित्तिकं काम्यं निषिद्धं चेति कर्म तत्।चतुर्धा व्यभजन् धीराः जैमिनिप्रमुखाः परे॥
मूलम्
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषद्धयोः।नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया॥
टीका
श्लोक.[671]
मूलम्
इति कौमारिलाः प्राहुः काम्यमेकेऽमुजानते।निषिद्धवर्जितं सर्वं फलसङ्गविवर्जितम्॥
मूलम्
चित्तस्य शुद्ध्यर्थमिष्टं शुद्धौ त्याज्यं विदुस्ततः।जातायां वेदनेच्छायामधिकारो निवर्तते॥
मूलम्
अधिकारिविभेदेन वेदप्रामाण्यरक्षणम्।कूटकार्षापणन्यायात् कैश्चित् तन्नानुमन्यते॥