801 कामप्रध्वंसवादः

मूलम्

कामप्रध्वंसिद्धान्तः यः पूर्वेत्तरकाण्डयोः।विरोधपरिहाराय जरन्मायाविदां मतः॥

मूलम्

निमित्तवादे प्राचीने प्रायशः पर्यवस्यति।फलसंयोगवादे तु काम एवाभिवर्धते॥

टीका

जै. सू.[6-2-9]

मूलम्

स्वर्गकामो यजेतेति निमित्तं कामना मताः।परस्वकामुकः प्रायश्चित्तं कुर्याद्यथा तथा॥

मूलम्

धनधान्यसमृद्धिस्तु यदा पुंसां भविष्यति।तदा सुखेच्छा भवति तच्छान्त्यै यागशासनम्॥

मूलम्

यागे च सर्वद्रव्याणि व्यतितानि भवन्ति हि।अतएव त्रिवर्षान्नैर्यष्टव्यमिति शिष्यते॥

मूलम्

यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यतृप्तये।अधिकं वापि विद्येत स सोमं पातुमर्हति॥

मूलम्

त्रैवार्षिकाधिकान्नो यः स बि सोमं पिबेद्विजः।योऽनाहिताग्निश्शतगुः अयज्वा च सहस्रगुः॥

टीका

मनु.[11-16]

मूलम्

तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्।मानवं याज्ञवल्कीयं दृश्यते हि वचस्त्विदम्॥

मूलम्

निमित्तपरता चैषा श्रुतिस्वारस्यशालिनि।फलतत्परतायां तु कामना स्वरसा भवेत्॥