मूलम्
सर्वः कर्मविधिः कैश्चित्स्वतन्त्रैर्ब्रह्मवादिभिः।आत्मविज्ञानाधिकारप्रयोजन इतीरितः॥
टीका
वि. वि.[440]
मूलम्
तेषामाशयसारोऽयं ग्रह्यो विधिविवेकतः।स्वभावस्तस्तु पुरुषाः रागाद्याविष्टमानसाः॥
मूलम्
विषोयोपार्जने सक्ताः दृष्टोपायफलैः सदा।व्याक्षिप्तमानसा नालमात्मानमिह वेदितुम्॥
मूलम्
उपदिष्ट मपिप्राज्ञैः परिभावयितुं कुतः।तस्मात्कर्मोपदेशाद्यैरनुष्टोऽष्टवर्षकः॥
मूलम्
कर्मपद्धतिनिर्बद्धः स्वाभाविकपथाच्चयुतः।उपदिष्टं चात्मतत्त्वं ग्रहीतुं ध्यातुमर्हति॥
मूलम्
तस्मात्कर्मविधिस्सर्वः प्रलोभः परमार्थतः।आत्मविज्ञानाधिकारसिद्ध्यर्थ इति निर्णयः॥
मूलम्
एष प्रच्छन्नचार्वाकमतसारांश इत्यपि। प्रदूषितः ब्रह्मकर्मवेदिभिः क्रान्तदर्शिभिः॥