798 ध्याननियोगः

मूलम्

जरन्मायाविदश्चापि द्विविधाः परिकीर्तिताः।भर्तृप्रपञ्चादयः स्युस्ते प्राय इति निर्णयः॥

मूलम्

एके ध्याननियोगस्य वादिनस्तत्र कीर्तीताः।निष्प्रपञ्चीकृतेरेव नियोगमपरे विदुः॥

टीका

श्रीभा.[1-1-4]

मूलम्

वेदान्तवाक्यं न परिनिष्पन्नब्रह्मगोचरम्।तथापि सिद्ध्यति ब्रह्म तद्ध्यानविधिशक्तितः॥

मूलम्

तत्र ध्याननियोगेन तत्साक्षात्कारमार्गतः।अद्वितीयब्रह्मभावरूपो मोक्षः फलिष्यति॥