मूलम्
तमेतामिति शास्त्रेण वेदनाकामनार्थता।कर्मणामिति भामत्याचार्यसिद्धान्तपद्धतिः॥
टीका
बृ. उ.[6-4]
मूलम्
अथ स्याद्वेदनेच्छायां यज्ञानुष्ठानमिष्यते।अनुष्ठानादेवेदनेच्छेत्यन्योन्योश्रयतेति चेत्॥
टीका
सिद्धान्तलेशसङ्ग्रहः.[ ]
मूलम्
इच्छा हि द्विधा काचिद्विषयौन्मुख्यलक्षणा।उत्कटा रुचिरन्या स्यात् बुभुक्षादिषु दृश्यते॥
मूलम्
अन्नद्वेपात्कृशो लोके तदौन्मुखाच्चिकित्सने।प्रवर्ततेऽथ तद्रुच्या भोजनोऽपि प्रवर्तते॥
मूलम्
येऽप्यत्र वेदनार्थत्वमाहुर्विवरणानुगाः।तैर्ज्ञानकामनान्तैव कर्मानुष्ठितिरिष्यते॥
मूलम्
इयान्विशेषस्त्वनयोः संग्रहीतृनिरूपितः।निद्योत्पत्तेरनियमनियमाविति हि क्रमात्॥
मूलम्
आद्यो विविदिषार्थस्स्यात् संस्कारार्थोऽपरो मतः ।स एव सन्निपत्योपकाराङ्गमिति कीर्त्यते॥
मूलम्
सर्वज्ञात्ममुनिः कर्म काम्यमित्यपि मन्यते।नित्यमेवेति बहवः काम्यविद्वेषिणो हि ते॥
मूलम्
विशिष्टाद्वैतसिद्धान्ते सिद्धान्ते द्वैतिनामपि। भास्करणामपि तथा भेदाभेदविदामपि॥
मूलम्
जरन्मयाविदां ध्याननियोगविदुषामपि।आप्रयाणं चाहरहः कर्मकर्तव्यतेष्यते॥
मूलम्
तदेतत्सन्निपत्योपकाराङ्गे पर्यवस्यति।तत्त्वं करणनिष्पत्तिसाधनत्वात्मकं यतः॥
मूलम्
तत्र भास्करसिद्धान्ते कर्मारादुपकारकम्।निष्पन्नं करणं यत्तु तस्य स्यात्सहकार्यदः॥
टीका
भा. भा.[207]
मूलम्
फलोत्पत्ताविति ततश्चादृष्टद्वारकं तु तत्।तत्समुच्चयपक्षस्तु बृहट्टिकाकृता मतः॥
मूलम्
तथा यादवभाष्येऽपि साध्यद्विदळशालिनि।नैयायिकादिसिद्धान्तोऽप्येतं पन्थानमाश्रितः॥
मूलम्
परिज्ञानाद्भवेन्मुक्तिरेतदालस्यलक्षणम्।इत्यादिवचनं तत्त्वचिन्तामण्यादिषु स्फुटम्॥