मूलम्
ज्ञानस्य चाङ्गं कर्मेति कर्मणोऽङ्गं च धीरिति।तत्रापि च विशेषांशः एषोऽयमवधार्यताम्॥
मूलम्
कर्म ज्ञानं द्वयं चापि स्यादारात्सन्निपत्य च ।क्रमादङ्गमिति प्राहोदयः किरणानळौ॥
टीका
किर.[12]
मूलम्
ज्ञानाङ्गकं च कर्मैव केषांचित् मोक्षसाधनम्।क्रत्वाङ्गकर्तृसंस्कारो ज्ञानमित्यपरं मतम्॥
मूलम्
कर्माधिकारसिद्ध्यर्थं शरीरान्यस्थिरात्मनः।विज्ञानमिति केषांचिन्मतं ज्ञानाङ्गवादिनाम्॥
मूलम्
भविष्यद्देहसंबन्धी वाक्यादात्मा न चेनेमितः।मानान्तराच्च कः कुर्याददृष्टार्थाः क्रियास्सुधीः॥
मूलम्
वेदोषरास्स्युर्लेदान्ता इति केचित्प्रचक्षते।ते पुनर्निगमान्तानामुपच्छन्दनवादिनः॥
टीका
सम्बन्ध.[238 श्लो.]
मूलम्
शेषत्वादिति सूत्रेण सर्वमेतद्विवक्षितम्।कर्माङ्गं ज्ञानमेव मोक्षहेतुं विदुः परे॥
टीका
ब्र. सू.[3-4-2]
मूलम्
तत्रारादुपकाराङ्गं भास्करादिमतं विदुः।सन्नित्योपकाराङ्गं प्राहू रामानुजादयः॥
मूलम्
आरादेवोपकुर्वन्ति क्रियाश्चित्तविशुद्धितः।इति सौरेश्वरं वाक्यं श्रुतं संबन्धवार्तिके॥
टीका
सम्बन्ध.[1133 श्लो.]
मूलम्
कर्मणां कामविलयद्वारा धीशेषतोदिताः।स कामध्वंससिद्धान्ताः प्रायः कापिलसंमतः॥
टीका
सम्बन्ध.[345 श्लो.]
मूलम्
प्रपञ्चविलयद्वारा धीशेषत्वं विदुः परे।काण्डद्वयाविरोधाय नानामार्गविकल्पना॥