मूलम्
एवं कर्मनिवृत्तौ च विकल्पे परिनिष्ठिते।ये संबन्धविकल्पास्स्युत एते ज्ञानकर्मणोः॥
मूलम्
कर्मैव केवलं काम्यं केषांचिन्मोक्षसाधनम्।कैश्चित्तु नित्यं कर्मैव मोक्षसाधनमिष्यते॥
टीका
सम्बन्ध.[117]
मूलम्
स चैकभविकः पक्षः कामकर्म हि जन्मनः।कारणं,तदभावे तु मुच्यते हेत्वभावतः॥
मूलम्
केषां चिन्नित्यमेवैतत् कर्म पापविनाशकम्।पापक्षयादेव मुक्तिः अभावो मोक्षकारणम्॥
मूलम्
कापिलाः ज्ञानमेवैकं मोक्षसाधनमभ्यधुः।ज्ञानं कर्म च केषांचिद्धेतुस्समसमुच्चितम्॥
मूलम्
अमिष्टस्य निवृत्तिश्च तथेष्टप्राप्तिरित्यपि।यदि स्यात् द्विदळो मोक्षः द्वितयं साधनं भवेत्॥
मूलम्
तच्च कर्म ज्ञानमिति क्रमात्साधनमिष्यते।इति भेदाभेदवादियादवप्रमुखा विदुः॥
मूलम्
बृहट्टीकाकृतश्चेति राणके प्रतिपादितम्।उपवर्षादयोऽप्येवमितिचाद्वैतिनो विदुः॥
टीका
न्या.सु.[330]
मूलम्
यद्यनिष्टनिवृत्तिर्वा तथेष्टप्राप्तिरेव वा।मोक्षस्यैकप्रकारत्वे साधनं तादृशं भवेत्॥
मूलम्
मोक्षो निरवधिः प्रीतिः स स्वर्ग इति ये विदुः ।जरन्मीमांसकास्तेषां साधनं कर्म केवलम् ॥
टीका
तै. उ. शं.[1-1]
मूलम्
अज्ञानादिह संसारं ज्ञानान्मोक्षं च ये विदुः ।सर्वे ज्ञानैकसाध्यं तं मोक्षमाहुर्मनीषिणः ॥
मूलम्
तेषामनिष्टमज्ञानं तन्निवृत्तिरभीप्सिता ।मोक्षः स्वतस्सिद्ध एव साध्यश्चेन्नश्यति ध्रुवम् ॥
मूलम्
परीक्ष्य लोकानित्यादि वेदान्ते प्रतिपादितम् ।यामिमां पुष्पितां वाचमित्याद्यां स्मृतावपि ॥
टीका
भ. गी.[2-42]