794 बादरायणीयः

मूलम्

एवमाद्यं सुप्रसिद्धमथ वैयासिके मते।माहात्म्यं ब्रह्मविद्यायाः फलाध्याये प्रदर्शितम्॥

टीका

ब्र. सू.[4-1-7]

मूलम्

अश्लेषश्च विनाशश्च स्यातामुत्तरपूर्वयोः।तत्र पूर्वे अनारब्धकार्ये एवेति निर्णयः॥

मूलम्

भोगेनैव क्षेपणीये प्रारब्धे कर्मणी इति।यत् श्रूयते शत्रुमित्रोपायनं कर्मणोरिदम्॥

मूलम्

समानविषयं ज्ञेयं तदश्लेषविनाशयोः।कालभेदस्त्वेतदीयावस्थाभेदनिबन्धनः॥

मूलम्

अनुग्रहो निग्रहो वा क्रमादेव हि लौकिकः।वर्धते क्षीयते तद्वदीश्वरीयोऽप्यलौकिकः॥