मूलम्
नित्यं नैमित्तिकं कर्म प्राक्तनं कर्म नाशयेत्।प्रायश्चित्तनयाच्चेति बृहट्टिकाकृतां मतम्॥
टीका
न्यायसु.[330]
मूलम्
नित्यनैमिक्तिकैरेव कुर्वाणो दुरीतक्षयम्।ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत्॥
मूलम्
अभ्यासाच्च क्वचित् ज्ञानात्कैवल्यं लभते नरः।धर्मणापनुदेत्पापं प्रायश्चित्तेन वा सुधीः॥
मूलम्
इत्यादीनि वचांस्यत्र प्रमाणानि परशशतम्।प्रतिपद्य विनिर्णीतः मुक्त्यैः कर्मपरिक्षयः॥