787 प्रशस्तपादीयः

मूलम्

कणादमुनिसिद्धान्ते मार्गद्वयमिदं पुनः।प्रशस्तपाददेवेन सूचितं भाष्यसागरे॥

टीका

वै. भा. गुणभागः[ ]

मूलम्

केषांचिद्योगिनां शान्तिसंतोषस्सुखलक्षणः।दुःखात्मकं तपश्चैव पुण्यपापफलं त्विति॥

मूलम्

सौभर्यादिनयाद्वाऽपि नानादेहपरिग्रहात्।सर्वं कर्मानुभूयान्ते मुक्तास्स्युरिति केचन॥

मूलम्

नित्यं नामित्तिकं कर्म कर्तव्यं ज्ञानिनामपि।अनुष्ठानायासमाहुः फलं प्राक्कर्मणां परे॥