786 उपपत्तिप्रकाराः

मूलम्

तत्र ये त्वात्मनो नाशं स्वरूपेण विदुर्बुधा।तेषामाश्रयनाशेनाशेषबन्धपरिक्षयः॥

मूलम्

बन्धश्चित्तगतो येषामात्मा कूढस्थलक्षणः।तेषां तु कापिलादिनां चित्तनाशेन मोक्षणम्॥

मूलम्

दृग्दृश्यभाव एव स्यात्संयोगः पुंप्रधानयोः।भोगापवर्गार्थतायां कृतायां तन्न दृश्यते॥

टीका

पा. भा.[2-22]

मूलम्

आविद्यकं कर्म येषामविद्यावादिनां मतम्।स्वप्नप्रबोधन्यायेन विद्यायां तत्परिक्षयः॥

मूलम्

तां विद्यां केचिदिच्छन्ति विबुधा भावनामयीम्।साक्षात्कारवतीं केचित् केचिच्चिन्तामयीं बुधाः॥

टीका

न्या.क.[270]

मूलम्

केचित् श्रुतिमयीं केचिदाहुवाक्यार्थधीमयीम्।एवं बहुविघा वादाः मायामभ्युपगच्छताम्॥