785 कर्मनिवृत्त्यनुपपत्तिः

मूलम्

इत्थं तत्त्वे विनिर्ज्ञाते धर्माधर्मपदार्थयोः।तन्निवृत्तौ विवादोऽयं प्रवृत्तस्त्ववगम्यताम्॥

मूलम्

नन्वात्मादर्शनं मोक्षहेतुस्स्यादित्यसाम्प्रतम्।अनादित्वादनन्तत्वात्कर्मणां संततात्मनाम्॥

मूलम्

अथ दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः।कथं फलमदत्वैव प्रक्तनं कर्म शाम्यति॥

मूलम्

कर्मक्षयो हि विज्ञानादित्येतच्चाप्रमाणकम्।तथाऽल्पफलदानं च राजपुत्रापराधवत्॥

टीका

श्लोक.[667]

मूलम्

नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि।इत्यादीनि वचांस्तत्र प्रमाणमुपलभ्यते॥