784 कर्मस्वरूपविकल्पः

मूलम्

मुक्तिर्हि कर्मणो मोक्षः कर्मत्वं विबुद्ध्यताम्।पुण्यं पापमिति द्वेधा कर्म हि विश्रुतम्॥

मूलम्

पुण्यं विहितजन्यं स्यात् पापं तु प्रतिषिद्धजम्।सुखस्य साधनं पुण्यं पापं दुःखस्य साधनम्॥

मूलम्

इति सामान्यतस्सिद्धं तद्विकल्पोऽवधार्यताम्।शाबरा ब्रुवते धर्मं धर्मं यागागिलक्षणम्॥

मूलम्

अपूर्वं कर्मनिवर्त्यं वृद्धमीमांसका विदुः।प्राभाकरास्तु वाक्यार्थः नियोगं तत्प्रचक्षते॥

टीका

श्लोक.[105]

मूलम्

स भावनाविशेषस्स्यादात्मस्थ इति निर्मयः।कौमारिलास्तु संस्कारं धर्माधर्मौ पुमाश्रितम्॥

मूलम्

बुद्धिवृत्तिविशेषो यः तं धर्मं कापिला विदुः।धर्मत्वेन व्यपदिशन्त्यार्हताः पुण्यपुद्गलान्॥

मूलम्

आराध्यदेवताप्रीतीं बादारायणवर्त्मगाः।आचक्षते धर्मगिरा सौगताश्चित्तवासनाम्॥

टीका

श्रीभा.[2-2-3]