मूलम्
चतुर्विधा पुरा प्रोक्ताः ह्यात्मानित्यत्ववादिनः।चतुर्ष्वपि मतेष्वेतान् क्रमाद्दोषान् विदुः परे॥
टीका
स. सि.[2-17]
मूलम्
आद्ये मते त्वैहिकार्थप्रवृत्तिर्दुर्घटा भवेत्।देहान्तत्वे विश्ववृत्तिर्धर्म्ये पथि न सिद्ध्यति॥
टीका
न्या. कु.[1 स्त.]
मूलम्
आकल्पस्थायिपक्षे तु मोक्षशास्त्रं हि निष्फलम्।आमोक्षस्थायितायां तु मोक्षस्य न पुमर्थता॥
मूलम्
तस्माच्चतुर्विधैरेष पुरुषार्थैर्यथायथम्।समन्वयं प्राप्तुमर्हः स्वीकर्तव्य इति स्थितम्॥
मूलम्
मद्विनाशात्फलं न स्यात् मत्तोऽन्यस्याथवा भवेत्।इति नैव प्रवृत्तिस्स्यात् आत्मनश्चेद्विनाशिनः॥
मूलम्
निरस्ताखिलदुःखोऽहमनन्दभाक्स्वराट्।भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते॥
मूलम्
अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति।अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः॥
मूलम्
मयि नष्टेऽपि मत्तोऽन्यस्स्तम्भः कुम्भश्च तिष्ठति।इति स्वस्य शिरश्छेदः पुरुषार्थो न कस्यचित्॥
मूलम्
ननुचात्महनो लोके पुरुषास्सन्ति चेन्न ते। विवेकिनः किन्तु मूढाः क्रोधान्धहृदया इति॥
मूलम्
आत्मनो यद्यनित्यास्स्युः कृतहानाकृतागमौ। स्यातामिति मतं तेषामात्मनित्यत्ववादिनाम्॥
मूलम्
स्योदन्यथा पापपुण्यविप्लवश्शास्त्रविप्लवः। प्रपञ्चविप्लवस्तस्मात्सर्वेषामात्मनत्यता॥
मूलम्
सर्वथा साधनीयेति सर्वशास्त्रार्थसंग्रहः। इदमेव ह्यास्तिकत्वं नास्तिकत्वं विपर्ययः॥