779 विशुद्धद्वैतम्

मूलम्

विशु्द्धद्वैतिनः कर्तृभोक्तृत्वप्रमुखान् गुणान्।रूपगन्धरसस्पर्शप्रभृतींश्चात्मनो विदुः॥

मूलम्

सर्वे स्वरूपभूतास्स्युः ते यावद्द्रव्यभाविनः।अन्तःकरणधर्मांश्च ज्ञानादीन् सांख्यरीतितः॥

मूलम्

विदुस्स्वरूपातिरिक्तान् सुखादीन् साक्षिगोचरान्।सर्वेऽप्यौपाधिकाः कर्मनाशे नश्यन्ति केवलम्॥

मूलम्

सांशोऽपि सविकारोऽपि साकारोऽपि परस्परम्।विलक्षणोऽपि जिवात्मा नित्य एवेति निर्णयः॥