मूलम्
विशिष्टाद्वैतिनो धर्मभूतज्ञानगतं विदुः।विकारजातमात्मानं निर्विकारं प्रचक्षते॥
मूलम्
तदेवं चित्स्वभावस्य पुंसः स्वाभाविकी चितिः।तत्त्त्पदार्थसंसर्गत्तत्तद्वित्तित्वमश्र्नुते॥
टीका
संवित्सिद्धिः.[ ]
मूलम्
स विकारः कर्ममूलः तस्मादौपाधिकस्तु सः।स्बाविको मोक्षदशाविकासः न स दुष्यति॥
मूलम्
ज्ञानात्मको ज्ञानधर्मा शेषतैकरसः पुमान्।निरञ्जनस्तु परमं साधर्म्यमुपगच्छति॥