मूलम् विशुद्धाद्वैतिनोऽविद्यावशात्सर्वस्य संगतेः।विद्यया तन्निवृत्तेश्च कौटस्थ्यं प्रतिपेदिरे॥ मूलम् ज्ञातृज्ञानज्ञेयभेददर्शनं दोषबन्धनम्।दोषहानौ सदद्वैतं आनन्दमजरामरम्॥