मूलम्
कौमारिलादिसिद्धान्ते कर्ता भोक्ता मतः पुमान्।ज्ञानशक्तिस्वभावश्च नित्य सर्वगतः स्वतः॥
मूलम्
नानित्यशब्दवाच्यत्वमात्मनो विनिर्वायते।विक्रियामात्रवाचित्वे न ह्युच्छेदोऽस्य तावता॥
मूलम्
स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ।न त्ववस्थान्तरप्राप्तौ लोके बालयुवादिवत्॥
मूलम्
विक्रियात्मस्वभावोऽपि व्यावृत्त्यनुगमात्मकः।पुरुषोऽभ्युपगन्तव्यं कुण्डलादिषु सर्पवत्॥
टीका
श्लोक.[695]
मूलम्
सर्वावाप्तिसमर्थश्च प्रकृत्याऽऽत्मा सदेष्यते।कश्चित्तु प्रतिबन्धोऽस्य कर्मभिस्सोऽपनीयते॥
टीका
तन्त्र.[375]