मूलम्
केवलं चापि कूटस्थं पुरुषं कापिला विदुः।चैतन्यं चेतनश्चासावभेदो धर्माधर्मिणोः॥
मूलम्
न कर्ताभोक्तृताद्याश्चितस्स्वाभाविका गुणाः।असंसर्गाग्रहाद्बुद्धिवृत्तयोऽध्यासगोचराः॥
मूलम्
परेतु सांख्याः पुरुषे भोक्तृतामनुजानते।चिद्रूपेण विकारोऽसौ स्यात्सजातीयलक्षणः॥
टीका
प्रश्नो. श.[6-3]
मूलम्
यस्मिन् विक्रियमाणेऽपि तदेवेदमिति प्रमा।न विहन्येत तन्नित्यं निर्विकारं च मन्यते॥