772 सौगतः

मूलम्

अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा।ज्ञानमात्रेण सर्वोऽपि व्यवहारोऽवकल्पते॥

मूलम्

ज्ञानसियैव प्रभोदोऽयमिच्छाद्वेषसुखादिकः।न वस्त्वन्तरमित्येवं न ततोऽन्यप्रकल्पनम्॥

मूलम्

गुणत्वमपि नास्तस्य यतोऽधिष्ठानकल्पना।न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन॥

मूलम्

तद्विज्ञानस्कन्ध एषः क्षणिकश्च ध्रुवान्तकः।कर्तृभोक्तृप्रत्यभिज्ञाव्यवस्था वासनानुगा॥

मूलम्

ज्ञानसंततिरुच्छिन्न शून्यताऽद्वयलक्षणा।मुक्तात्मेति विदुः केचित् परे तां शु्द्धलक्षणाम्॥