मूलम्
यैषाऽऽनन्दस्य मीमांसा मानुषानन्दपूर्विका।विकासरूपा सा सर्वलोककामाप्तिलक्षणा॥
मूलम्
एते वैकासिकाः ख्याताः प्रायो वैनाशिकाः परे।ते निवृत्तिपराकाष्ठानिष्ठा इति विनिर्णयः॥
मूलम्
ये प्रवृत्तिपराकाष्ठानिष्ठास्ते उभये समाः।भावाभावस्वभावस्य फलयोरविशेषतः॥
मूलम्
या संकोचनिवृत्तिस्स विकास इति गीयते।यैवावृत्तिनिवृत्तिस्स प्रकाश इति कथ्यते॥
मूलम्
सर्वदा गमनं यच्च सर्वदा स्थितिरेव सा।सर्वत्र गमनं यच्च सर्वत्र व्याप्तिरेव सा॥
मूलम्
पराकाश्यता यैव सैव स्यात्स्वप्रकाशता।अस्तमेतैव सविता चोदेता कस्यचिद्भवेत्॥
मूलम्
तथा सर्वपरित्यागस्सर्वेसंग्रहणात्मकः।सर्वत्र रागास्सर्वत्र वैराग्यं चोभयं सम्म्॥
मूलम्
सर्वज्ञता सर्वशक्तिः जडता तुच्छताऽपिवा।तथैव सर्वतोमुक्तिस्सर्वप्राप्तिरितीर्यते॥
मूलम्
अपोहदृष्टव्यः केचित्केचिदन्वयदृष्टयः।श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धस्स एव सः॥
मूलम्
नैरात्म्यमेव सार्वात्म्यं इति तत्त्वविदो विदुः।एष कश्चित्सर्वसमरसभावविनिरिणयः॥