मूलम्
येयं सुषुप्त्यवस्थैषा सर्वचेतनसाक्षिता।तामुदाहरणं मुक्तेस्सर्वे दार्शनिका विदुः॥
मूलम्
बृहदारण्यके याज्ञवल्क्यो जनकभूपतेः।मोक्षोपलक्षणामेतामाह षष्ठप्रपाठके॥
मूलम्
भाष्येऽपि पाक्षितसे सैषा दशैवानूदिता तथा।यथा सुप्त्यस्य च स्वप्नादर्शने क्लेशसमभयः॥
टीका
न्या. भा.[4-1-63]
मूलम्
तथाऽपवर्गे रागानुबन्धो विच्छिद्यते तराम्।तस्यामपिं दशायां ये विकल्पास्तान्निबोधत॥
मूलम्
आत्मप्रध्वंसवादा ये तेषां निर्वाणलक्षणा।मुक्तिरात्यन्तिकी सैषा या महासुप्तिरुच्यते॥
मूलम्
आत्मनित्यत्ववादा ये तेषां कैवल्यलक्षणा।मुक्तिरेतादृगेवेष्टा सुखदुःखविवर्जिता॥
मूलम्
एतां च केचिदत्यन्तसुकरूपां विजानते।केचिदल्पसुखं केचिदभावीलम्बनां विदुः॥
मूलम्
केचिन्मोहमयीं प्राहुरात्मनोऽस्फुरणात्मिकाम्।दृष्टान्तेऽपि विवादश्चेत्कथं दार्ष्टान्तिकस्थितिः॥