मूलम्
एवं मोक्षविकल्पेन द्विविधा ज्ञायते गतिः।स्वरूपोच्छित्तिरूपैपोपाध्युच्छित्तिरनन्तरा॥
मूलम्
उपाध्युच्छित्तिपक्षेऽपि विभागो मुख्यतस्वसौ।स्वंसंवेदनराहित्यसाहित्याभ्यां द्विधा मतः॥
मूलम्
स्वरूपोच्छित्तिपक्षसंविद्रहितपक्षयोः।विशेषः फलतो नैव वक्तुं शक्यमितीतरे॥
मूलम्
सुखसंवित्त्यभिव्यक्तिं कैवल्येऽप्यनुजानते।श्रुतिर्न्यायानुरोधेन तात्पर्ये पर्यवस्यति।
मूलम्
अतस्स्वतन्त्रः श्रौतोऽन्यः पक्षो नास्तीति यौक्तिका।तस्मान्मध्यस्थचिन्तायां सम्प्रदायः परा गतिः॥
मूलम्
संसंकारः सुदृढस्सोऽयं पारंपर्यव्यवस्थितः।संप्रदायः यतः श्रद्धाविद्याकर्ममयः पुमान्॥