767 जीवप्रध्वंसपक्षः

मूलम्

जीवस्वरूपप्रध्वंसवादिनो ये विचक्षणाः।तत्रादिमास्तु क्षणिकविज्ञानात्मविदो बुधाः॥

मूलम्

देहान्तात्मविदो ये तु बार्हस्पत्या हि मे मताः।पौराणिकैकदेशीयाः ये कल्पान्तात्मवादिनः॥

मूलम्

येऽप्यौपनिषदाः केचित् मोक्षान्तात्माभिधायिनः।तत्रच ब्रह्मदत्तीयाः जीवानामिति तन्मतम्॥

मूलम्

भर्तृप्रपञ्चादयोऽन्ये ब्रह्मावस्थात्मवादिनः।तत्र केचिदभिव्यक्तिवादिनः शक्तिवादिनः॥

मूलम्

विकारा ब्रह्मणः जीवा इति कैश्चिदुपेयते।उत्पत्तिरप्यभिव्यक्तिः विकृतिर्वाऽप्यवस्थितिः॥

मूलम्

परिणामस्ततस्सर्वे ख्याता वैनाशिका इति।सर्वेऽप्याश्रयनाशेन क्लेशप्रध्वंसवादिनः॥

मूलम्

वैकासिकाः परे सर्वे प्रायो वैयासिका इमे।परिच्छेदकनाशेन ह्यपरिच्छेदवादिनः॥