मूलम्
ज्योतिष्टोमाग्निहोत्रादिसाध्यो यस्स्वर्गलक्षणः।मोक्षस्स एवेति मतं जरन्मीमांसकादृतम्॥
टीका
तै. उ. शं.[1-1]
मूलम्
चित्तेन स्वात्मसौख्यानुभूतिं भाट्टैकदेशिनः।केचित्स्वात्मान्यवस्थानमभावापत्तिलक्षणम्॥
टीका
किर.[8]
मूलम्
परमात्मप्राप्त्यवस्था पुनरावृत्तिर्वर्जिता।मुक्तिर्निश्श्रेयसमिति निर्णीतं तन्त्रवार्तिके॥
टीका
प्रक.[8 प्र.]
मूलम्
प्रभाकरगुरूणां तु दृषत्तुल्य इतीरीतम्।बोद्धा विषयसंवित्तौ ग्राहकत्वेन भासते॥
मूलम्
मोक्षे प्रकाशरूपोऽसावात्मेत्यके प्रचक्षते।नेप्स्येत पुरुषैस्स्वापादविशिष्टोऽन्यथा तदा॥
मूलम्
केवलात्मानन्दभोगः कापिलैः कैश्चिदिष्यते।कैश्चित्स्वस्वित्तिशून्या कैवल्यावस्थितिर्मता॥
मूलम्
एवमेवानुजानन्ति पातञ्जसमतानुगाः।प्रकाशात्मविदो न स्वप्रकाशात्मविदस्तु ते॥
मूलम्
सर्ववैशेषिकगुणोच्छेदः काणक्षुजो मतः।एवमेवानुजानन्ति केचिद्गौतमदर्शनाः॥
मूलम्
तथा नित्यसुखव्यक्तिं विदुर्भूषणयायिनः।अथौपनिषदैः प्रायः ब्रह्माविर्भाव उच्यते॥
मूलम्
स्वाभाविकं तु ये भेदाभेदामिच्छन्ति वैदिकाः।भर्तृप्रपञ्चादयस्तैस्सन्मात्रब्रह्मता मता॥
मूलम्
औपाधिकं तु ये भेदमभेदं निरुपाधिकम्।इच्छन्ति भास्करास्तेषां सत्योपाधिविनाशतः॥
मूलम्
सर्वातिशायितानन्दस्वात्मसंवेदिनः प्रभोः।सर्ववेत्तुस्सर्वशक्तेः ब्रह्मणो भाव इष्यते॥
मूलम्
आविद्यकं तु ये भेदमभेदं पारमार्तिकम्।अहुर्मायाविदस्तेषां पन्थाश्शांकरसंमतः॥
मूलम्
निर्विशेषब्रह्मभावापत्तिर्मोक्षस्तु तन्मते।ब्रह्माद्वैतवदेवेदं शब्दाद्वैतविदां मतम्॥
मूलम्
ते विशुद्धाद्वैतिनस्स्युः विशिष्टाद्वैतिभिः पुनः।परिपूर्णपरब्रह्मानुभवो मोक्ष इष्यते॥
मूलम्
तद्भोगे परमं साम्यमाहू रामानुजादयः ।स्वस्वयोग्यस्वस्वरूपानन्दाभिव्यक्तिलक्षणा ॥
मूलम्
मुक्तिरित्युच्यते पूर्णप्रज्ञैः विष्णोः प्रसादतः ।प्रायेणैतेषु पक्षेषु संकीर्णा इतरेऽखिलाः ॥