मूलम्
पापसत्त्वे दुःखसत्त्वं तत्सत्त्वे मुक्तिसत्यता।तत्त्सत्वे हेतुचिन्ता स्यात् सर्वं श्रद्धानिबन्धनम्॥
टीका
स. सि.[2-75]
मूलम्
तथाऽप्यात्यन्तिको दुःखध्वंसश्चेन्मोक्ष इष्यते।देहविच्छेदमात्रेण विमोक्षश्चारुवाङ्मतः॥
मूलम्
महानन्दो यदा मोक्षः शरीरान्याविनिर्णयात्।सहस्त्रकामिनीलाभं कामशास्त्रविदो विदुः॥
टीका
न्या. सि.[2 परि.]
मूलम्
तत्रापि सहस्त्रेति सहस्त्रवणमुच्यते।सहस्त्रुतिर्मोक्ष इति रतिरत्नप्रदीपिका॥
मूलम्
शून्याद्वैतं माध्यमिकमतस्यैः मोक्ष इष्यते।स चोपलम्भोपशमः प्रपञ्चोपशमश्शिवः॥
मूलम्
दुःखं स्वलक्षणं सून्यं क्षणिकं सकलं ततः।यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्षते॥
मूलम्
शून्यादीनां भावनया वासनानां परिक्षयात्।धीसंततिः निर्वृणोति निर्वातस्थप्रदीपवत्॥
मूलम्
वासनात्यन्तविच्छेदं योगाचाराः प्रचक्षते।ततो विशुद्धविज्ञानसत्सन्तानमहोदयः॥
मूलम्
समस्ताळीकविषयज्ञानसंतानसंहृतिः।प्रज्ञाकरोदिता सौत्रान्तिकसिद्धान्तसम्मता॥
टीका
न्यायपरि.[ ]
मूलम्
यतोऽसत्ख्यातिसिद्धान्तः सौत्रान्तिकपरिष्कृतः।केचिद्विषयसंसर्गवैधुर्यमनुजानते॥
मूलम्
वैभाषिकमते मोक्षस्स स्यादिति विनिर्णयः।मतेष्वेषु त्रिषु मता केवला बुद्धिंसंततिः॥
मूलम्
एकतापत्तिमिच्छन्ति सन्ततीनां धियां परे।शुद्धज्ञानोदयः कैश्चित् चरमज्ञानमिष्यते॥
मूलम्
नित्योर्ध्वगमनं मुक्तिरिति ह्यार्हतपद्धतिः।अर्हद्देहानुप्रवेशः तदीयैः कैश्चिदिष्यते॥
मूलम्
साधारणशशरीरोऽसौ सर्वलोकोपरिस्थितः।निरावरणता कैश्चिदलोकाकाश इष्यते॥
मूलम्
सर्वलोकाकाशमूर्ध्नि सोऽलोकाकाशइष्यते।वियातानुभवः कैश्चिद्वैयात्यं च प्रगल्भता॥
मूलम्
स्वातन्त्रय्यं शिवरारूप्यं शिशाम्यमथापिवा।चिच्छक्तिपरिशेषश्च भेदाः पाशुपता इमे॥