मूलम्
अल्पत्वास्थैर्यचिन्तायां सर्वं दुःखमयं जगत्।पूर्णत्वस्थैर्यबुद्धौ तु सर्वं सुखमयं जगत्॥
मूलम्
अतोऽभिमानानुगुणा सुखदुःखव्यवस्थितिः।सोऽभिमानः कर्ममूल इति लोकायतेतरे॥
मूलम्
कर्मापिचेश्वरायात्तमिति सेश्वरपद्धतिः।कर्मानपेक्षेशवादे शैवीच्छा तान्नियामिका॥
टीका
वे. सं.[248]