762 वैराग्यम्

मूलम्

एवं सर्वमिदं दुःखं इति भावयतोऽनिशम्।सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते॥

मूलम्

निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः।क्लेशकर्मप्रहाणादिद्वारो निश्श्रेयसोदयः॥

मूलम्

त्यागेन वाऽथ भोगेन वैरागयमिति संशये।न कर्मणा न प्रजया त्यागेनैकेत्यनुश्रवात्॥

टीका

तै. उ.[4-10]

मूलम्

त्यागेनैवेति सिद्धान्तः निगमान्तविदां मतः।न जातु कामः कामानामुपभोगेन शाम्यति॥

टीका

मनु.[2-94]

मूलम्

हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते।इति मन्वादयोऽप्येतं पन्थानं समुराश्रिताः॥

मूलम्

भोगेनैवेति सिद्धान्तः सांख्यानामवगम्यते।भोगं कृत्वैव पुरुषस्यापवर्गं करोत्यपि॥

मूलम्

प्रधानमिति सिद्धान्तः सांख्यशास्त्रेऽवगम्यते।जहात्येनां भक्तुभोगामित्यपि श्रूयते श्रुतिः॥

टीका

श्वेता.[4 अ.]

मूलम्

ऋणापाकरणश्रुत्याऽप्येष पन्थाः प्ररोच्यते।ऐकाश्रम्यविधानं च जैमिनेरिह युज्यते॥

टीका

गौ. ध.[3-36]

मूलम्

कथं चिदपि वैराग्यमन्तरङ्गं विमुक्तये।इति बोधयितुं शिष्यान् प्राचां तत्र न विस्तरः।