761 अभ्यासः

मूलम्

अभ्यास एव सर्वत्र सुखादीनां नियामकः।कालदेशदशाभिन्नस्वभावात् व्यवस्थितः॥

मूलम्

नहि वस्तु स्वभावेन पुरुषार्थत्वमश्नुते।तथात्वे सर्वदा सर्वं सर्वेषां स्याद्व्यवस्थया॥

मूलम्

सुखाय वा स्याद्दुःखाय नचैवं त्वव्यवस्था।सुखदुःखव्यवस्थेयं दुर्निरूपा हि धीमतम्॥

मूलम्

तथाचोक्तं पुराणेऽपि पराशरमहर्षिणा।मनःप्रीतिकरः स्वर्गः नरकस्तद्विपर्ययः॥

मूलम्

वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च ।कोपाय च ततस्तस्माद्वस्तु वस्त्वात्मकं कुतः॥

मूलम्

तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते।तदेव कोपाय ततः प्रसादाय च जायते॥

मूलम्

तस्माद्दुःखात्मकं नास्ति नच किंचित्सुखात्वकम्।संस्कारात्मा वासनैव सुखदुःखव्यवस्थितिः॥

मूलम्

हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते।तद्भाविताः प्रपद्यन्ते तत्तस्मात्तस्य रोचते॥

मूलम्

पशुहिंसादिसंबन्धे यज्ञे तुष्यन्ति हि द्विजाः।तेभ्य एव हि यज्ञेभ्यः शाक्याः क्रुध्यन्ति पीडिताः॥

मूलम्

अग्नेश्शीतेन तोयस्य तृषा भक्तस्य च क्षुधा।क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः॥

मूलम्

क्षुत्तृष्णोपशमं तद्वत् शीताद्युरशमं सुखम्।मन्यते बालबुद्धित्वात् दुःखमेव हि तत्पुनः॥

मूलम्

अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम्।भ्रान्तिज्ञानावृक्षाणां प्रहारोऽपि सुखायते॥

मूलम्

तथा सौगतगाथाऽपि गीयते सार्वलौकिकी।परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ॥

मूलम्

कुणपः कामिनि भक्ष्यमिति तिस्त्रो विकल्पनाः।अथौपनिषदानां च श्रुता माण्डूक्यकारिका॥

मूलम्

यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति।तं चावति स भूत्वाऽसौ तद्ग्रहस्समुपैति तम्॥

टीका

गौ. का.[2-29]