760 उदासीनभावः

मूलम्

सुषुप्त्याद्युपलम्भेन सर्वे दार्शनिकाः परे।तृतीयामसुखादुःखावस्थामभ्युपयन्ति ते॥

मूलम्

रागाद्वेषविहिना या दशोपेक्षात्मिका यथा।यथाऽनुष्णाशीतया वा यथाऽनिर्वचनीयता॥

मूलम्

प्रत्यक्षाच्च परोक्षाच्चापरोक्षोऽन्यो यथेष्यते।कृतिज्ञप्त्योरन्तराळे व्यक्तिरन्या यथोच्यते॥

मूलम्

तादात्म्यं च यथा भेदाभेदयोर्मध्यलक्षमम्।पतितात्पतितव्याच्च वर्तमानाध्वता यथा॥

मूलम्

संचितागामिनोर्मध्ये प्रारब्धं वा यथेष्यते।तथाऽन्तरालावस्थानं प्राय इच्छन्ति सूरयः॥

मूलम्

मिथस्संश्रयधीबाधमध्यावस्थोपलम्भनैः।न स्यात्परस्पराभावमात्रता सुखदुःखयोः॥